वांछित मन्त्र चुनें

तव॑ प्रया॒जा अ॑नुया॒जाश्च॒ केव॑ल॒ ऊर्ज॑स्वन्तो ह॒विष॑: सन्तु भा॒गाः । तवा॑ग्ने य॒ज्ञो॒३॒॑ऽयम॑स्तु॒ सर्व॒स्तुभ्यं॑ नमन्तां प्र॒दिश॒श्चत॑स्रः ॥

अंग्रेज़ी लिप्यंतरण

tava prayājā anuyājāś ca kevala ūrjasvanto haviṣaḥ santu bhāgāḥ | tavāgne yajño yam astu sarvas tubhyaṁ namantām pradiśaś catasraḥ ||

पद पाठ

तव॑ । प्र॒ऽया॒जाः । अ॒नु॒ऽया॒जाः । च॒ । केव॑ले । ऊर्ज॑स्वन्तः । ह॒विषः॑ । स॒न्तु॒ । भा॒गाः । तव॑ । अ॒ग्ने॒ । य॒ज्ञः । अ॒यम् । अ॒स्तु॒ । सर्वः॑ । तुभ्य॑म् । न॒म॒न्ता॒म् । प्र॒ऽदिशः॑ । चत॑स्रः ॥ १०.५१.९

ऋग्वेद » मण्डल:10» सूक्त:51» मन्त्र:9 | अष्टक:8» अध्याय:1» वर्ग:11» मन्त्र:4 | मण्डल:10» अनुवाक:4» मन्त्र:9


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अग्ने) हे अङ्गों के नायक आत्मन् ! (तव प्रयाजाः-च-अनुयाजाः-केवले) तेरे प्रकृष्ट भोक्तव्य अन्नादि पदार्थ तथा तदनुरूप पेय पदार्थ मोक्षसाधक होवें (हविषः-भागाः-ऊर्जस्वन्तः सन्तु) ग्रहण करने योग्य विषय के अनुभव तेजस्वी हों, भोग में न डूबें (तव अयं सर्वः-यज्ञः-अस्तु) यह तेरा शरीरयज्ञ सब कल्याणसाधक हो, तेरे प्रतिकूल न जाये (चतस्रः प्रदिशः-तुभ्यं नमन्ताम्) चारों दिशाओं में रहनेवाली प्रजाएँ तेरा सत्कार करें। एवं (अग्ने) हे विद्युत् अग्ने ! (तव प्रयाजाः-च-अनुयाजाः-केवले) तेरे प्रकृष्टसंगमनीय-धनात्मक तारें तथा अनुकृष्टसंगमनीय ऋणात्मक तारें अपने-अपने बन्धन में अलग-अलग हों (हविषः-भागाः-ऊर्जस्वन्तः सन्तु) ग्राह्य वज्र के अंश तेजस्वी हों (अयं सर्वः-यज्ञः-तव अस्तु) यह सारा यन्त्रसमूह तेरा हो, तू इसे चला (चतस्रः प्रदिशः-तुभ्यं नमन्ताम्) चारों दिशाओं में होनेवाली कलाएँ तेरे आश्रित हों ॥९॥
भावार्थभाषाः - मनुष्य के समस्त खान और पान और विषयभोग संसार में फँसनेवाले न हों, किन्तु सच्चे कल्याण और मोक्ष के साधन बनें। समस्त दिशाओं की प्रजाएँ तेरी प्रतिष्ठा करें, ऐसा अपने को बना। एवं विद्युत् के धनात्मक और ऋणात्मक तार अपने-अपने स्थान बन्धन में अलग-अलग हों, जो सारी यन्त्र की कलाओं को स्वाधीन करके चला सकें ॥९॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अग्ने) हे अङ्गानां नायक ! आत्मन् (तव प्रयाजाः-च-अनुयाजाः-केवले) तव प्रयाजाः प्रकृष्टभोक्तव्या अन्नादिपदार्थाः, तथा अनुयाजाः तदनुरूपपेयपदार्थाश्च केवले कैवल्यसाधने भवन्तु (हविषः-भागाः ऊर्जस्वन्तः सन्तु) ग्राह्यस्य विषयस्य भजनीया अनुभवास्तेजस्विनः सन्तु, न भोगे मज्जयन्तु (तव-अयं सर्वः यज्ञः-अस्तु) अयं सर्वः शरीरयज्ञस्तव कल्याणसाधको भवतु, न तव प्रतिकूलं गच्छेत् (चतस्रः प्रदिशः-तुभ्यं नमन्ताम्) चतस्रः चतुष्प्रकाराः प्रमुखदिग्वर्तिन्यः प्रजास्तुभ्यं नमन्तां सत्कुर्वन्तु। तथा (अग्ने) हे विद्युद्रूपाग्ने ! (तव प्रयाजाः-च-अनुयाजाः केवले) प्रकृष्टसंगमनीयास्तथाऽनुकृष्टसंगमनीया धनर्णात्मका तन्त्रीपदार्थाः स्वे स्वे केवले बन्धने तव भवन्तु (हविषः-भागाः-ऊर्जस्वन्तः सन्तु) ग्राह्यस्य वज्रस्य भजनीया-अंशास्तेजस्विनो भवन्तु (अयं सर्वः-यज्ञः-तवः-अस्तु) अयं सर्वः यन्त्रसमूहस्तव भवतु, एनं त्वं चालय (चतस्रः प्रदिशः-तुभ्यं नमन्ताम्) चतुष्प्रकाराः प्रमुखदिग्वर्तिन्यः कलाः-तुभ्यं त्वयि ह्याश्रयन्तु ॥९॥